|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.139. अध्यायः 139
Mahabharata - Adi Parva - Chapter Topics
भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः॥ 1 ॥
रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम्॥ 2 ॥
भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-139-0x(818)(6227)
`दुर्योधनस्तु पापात्मा भीममाशीविषहदे।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा॥ 1-139-1(6228)
प्रभातायां रजन्यां च प्रविवेश पुरं ततः।
ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः॥' 1-139-2(6229)
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि।
स्वेनानुमानेन परं साधुं समनुपश्यति॥ 1-139-3(6230)
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः॥ 1-139-4(6231)
क्व गतो भविता मातर्नेह पश्यामि तं शुभे।
उद्यानानि वनं चैव विचितानि समन्ततः॥ 1-139-5(6232)
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः॥ 1-139-6(6233)
आगताः स्म महाभागे व्याकुलेनान्तरात्मना।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु॥ 1-139-7(6234)
कथयस्व महाबाहुं भीमसेनं यशस्विनि।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने॥ 1-139-8(6235)
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता॥ 1-139-9(6236)
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम्।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति॥ 1-139-10(6237)
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह।
द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः॥ 1-139-11(6238)
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन्।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम्॥ 1-139-12(6239)
आगताः स्वगृहं भूय इदमूचुः पृथां तदा।
न दृश्यते महाबाहुरम्ब भीमो वने चितः॥ 1-139-13(6240)
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा। 1-139-14(6241)
वैशम्पायन उवाच।
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम्॥ 1-139-14x(819)
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते॥ 1-139-15(6242)
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह॥ 1-139-16(6243)
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः॥ 1-139-17(6244)
निहन्यादपि तं वीरं जातमन्युः सुयोधनः।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च॥ 1-139-18(6245)
विदुर उवाच। 1-139-19x(820)
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव॥ 1-139-19(6246)
दीर्घायुषस्तव सुता यथोवाच महामुनिः।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति॥ 1-139-20(6247)
वैशम्पायन उवाच। 1-139-21x(821)
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे॥ 1-139-21(6248)
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली॥ 1-139-22(6249)
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्॥ 1-139-23(6250)
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि॥ 1-139-24(6251)
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव॥ 1-139-25(6252)
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः।
ततो नागस्य भवने कृतकौतुकमङ्गलः॥ 1-139-26(6253)
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः॥ 1-139-27(6254)
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः॥ 1-139-28(6255)
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः।
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः॥ 1-139-29(6256)
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः॥ 1-139-30(6257)
तत उत्थाय कौन्तेयो भीमसेनो महाबलः।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा॥ 1-139-31(6258)
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च।
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः॥ 1-139-32(6259)
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्॥ 1-139-33(6260)
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम्।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः॥ 1-139-34(6261)
नागलोके च यद्वृत्तं गुणदोषमशेषतः।
तच्च सर्वमशेषेण कथयामास पाण्डवः॥ 1-139-35(6262)
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन॥ 1-139-36(6263)
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः॥ 1-139-37(6264)
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा।
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत्॥ 1-139-38(6265)
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम्॥ 1-139-39(6266)
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम्।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते॥ 1-139-40(6267)
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान्।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत्॥ 1-139-41(6268)
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्।
`राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः।'
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते॥ ॥ 1-139-42(6269)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-139-8 भावश्चित्तं न शुध्यते जीवतीति न मनुते॥ 1-139-19 प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्धः॥ 1-139-41 तान्कुरुबालकान् न्यवेदयत्॥ ऊनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|