(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.139. अध्यायः 139
Mahabharata - Adi Parva - Chapter Topics
भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः॥ 1 ॥
रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम्॥ 2 ॥
भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-139-0x(818)(6227)
`दुर्योधनस्तु पापात्मा भीममाशीविषहदे।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा॥ 1-139-1(6228)
प्रभातायां रजन्यां च प्रविवेश पुरं ततः।
ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः॥' 1-139-2(6229)
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि।
स्वेनानुमानेन परं साधुं समनुपश्यति॥ 1-139-3(6230)
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः॥ 1-139-4(6231)
क्व गतो भविता मातर्नेह पश्यामि तं शुभे।
उद्यानानि वनं चैव विचितानि समन्ततः॥ 1-139-5(6232)
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः॥ 1-139-6(6233)
आगताः स्म महाभागे व्याकुलेनान्तरात्मना।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु॥ 1-139-7(6234)
कथयस्व महाबाहुं भीमसेनं यशस्विनि।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने॥ 1-139-8(6235)
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता॥ 1-139-9(6236)
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम्।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति॥ 1-139-10(6237)
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह।
द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः॥ 1-139-11(6238)
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन्।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम्॥ 1-139-12(6239)
आगताः स्वगृहं भूय इदमूचुः पृथां तदा।
न दृश्यते महाबाहुरम्ब भीमो वने चितः॥ 1-139-13(6240)
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा। 1-139-14(6241)
वैशम्पायन उवाच।
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम्॥ 1-139-14x(819)
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते॥ 1-139-15(6242)
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह॥ 1-139-16(6243)
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः॥ 1-139-17(6244)
निहन्यादपि तं वीरं जातमन्युः सुयोधनः।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च॥ 1-139-18(6245)
विदुर उवाच। 1-139-19x(820)
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव॥ 1-139-19(6246)
दीर्घायुषस्तव सुता यथोवाच महामुनिः।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति॥ 1-139-20(6247)
वैशम्पायन उवाच। 1-139-21x(821)
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे॥ 1-139-21(6248)
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली॥ 1-139-22(6249)
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्॥ 1-139-23(6250)
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि॥ 1-139-24(6251)
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव॥ 1-139-25(6252)
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः।
ततो नागस्य भवने कृतकौतुकमङ्गलः॥ 1-139-26(6253)
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः॥ 1-139-27(6254)
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः॥ 1-139-28(6255)
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः।
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः॥ 1-139-29(6256)
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः॥ 1-139-30(6257)
तत उत्थाय कौन्तेयो भीमसेनो महाबलः।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा॥ 1-139-31(6258)
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च।
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः॥ 1-139-32(6259)
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्॥ 1-139-33(6260)
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम्।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः॥ 1-139-34(6261)
नागलोके च यद्वृत्तं गुणदोषमशेषतः।
तच्च सर्वमशेषेण कथयामास पाण्डवः॥ 1-139-35(6262)
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन॥ 1-139-36(6263)
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः॥ 1-139-37(6264)
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा।
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत्॥ 1-139-38(6265)
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम्॥ 1-139-39(6266)
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम्।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते॥ 1-139-40(6267)
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान्।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत्॥ 1-139-41(6268)
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्।
`राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः।'
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते॥ ॥ 1-139-42(6269)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-139-8 भावश्चित्तं न शुध्यते जीवतीति न मनुते॥ 1-139-19 प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्धः॥ 1-139-41 तान्कुरुबालकान् न्यवेदयत्॥ ऊनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.